Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 3 स्वावलम्बनम् विनश्यति Textbook Exercise Questions and Answers.
Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 3 स्वावलम्बनम्
प्रश्न 1.
उच्चारणं कुरुत-
विंशतिः – त्रिंशत् – चत्वारिंशत्
द्वाविंशतिः – द्वात्रिंशत् – द्विचत्वारिंशत्
चतुर्विंशतिः – त्रयस्त्रिंशत् – त्रयश्चत्वारिंशत्
पञ्चविंशतिः – चतुस्त्रिंशत् – चतुश्चत्वारिंशत्,
अष्टाविंशतिः – अष्टात्रिंशत् – सप्तचत्वारिंशत्
नवविंशतिः – नवत्रिंशत् – पञ्चाशत्।
उत्तरम्:
स्वयं उच्चारण कीजिए।
प्रश्न 2.
अधोलिखितानां प्रश्नानामुत्तराणि लिखत
(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्?
(ख) कस्य गृहे कर्मकर: नासीत्?
(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?
(घ) प्रत्येकं चतुर्थवर्षे फरवरी-मासे कति दिनानि भवन्ति?
(ङ) कति ऋतवः भवन्ति?
(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तरम्:
(क) श्री कण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन् ?
(ख) श्रीकण्ठस्य गृहे कर्मकरः नासीत् ?
(ग) श्रीकण्ठस्य आतिथ्यं कृष्णमूर्तिः तस्य माता-पिता च अकुर्वन् ?
(घ) प्रत्येकं चतुर्थवर्षे फरवरी-मासे एकोनविंशतिः दिनानि भवन्ति ?
(ङ) षड् ऋतवः भवन्ति।
(च) कृष्णमूर्तेः बहवः कर्मकराः सन्ति ?
प्रश्न 3.
चित्राणि गणयित्वा तदने संख्यावाचकशब्दं लिखत-
उत्तरम्:
प्रश्न 4.
मञ्जूषातः अड्कानां कृते पदानि चिनुत-
मञ्जूषा
चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत्, अष्टाविंशतिः, त्रिंशत्, चतुर्विंशतिः
28 …………
27 …………
30 …………
31 ……….
24 ……….
40 ………..
50 ……….
त्रयस्त्रिंशत्।
उत्तरम्-
28 = अष्टाविंशतिः
27 = सप्तविंशतिः
30 = त्रिंशत्
31 = एकत्रिंशत्
24 = चतुर्विंशतिः
40 = चत्वारिंशत्
50 = पञ्चाशत्।
प्रश्न 5.
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत
उत्तरम्:
(क) एषः कृषक: क्षेत्रम् कर्षति।
(ख) एतौ कृषकौ खननकार्यम् कुरुतः।
(ग) एते कृषकाः धान्यम् रोपयन्ति।
(घ) एष: कृषक: क्षेत्रं कर्षति।
प्रश्न 6.
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं करुत
यथा- अहं स्वावलम्बनस्य सुखं प्रतिदिनम् अनुभवामि।
अहं कस्य सुखं प्रतिदिनम् अनुभवामि?
(क) कृष्णमूर्तिः सामान्यकृषकस्य पुत्रः आसीत्।
(ख) अधुना गृहे कोऽपि कर्मकरः नास्ति।
(ग) नक्षत्राणाम् आवागमनं स्वयमेव भवति।
(घ) एकस्मिन् वर्गे सप्तदश छात्रा: अपठन्।
उत्तरम्:
(क) कः सामान्यकृषकस्य पुत्रः आसीत्?
(ख) अधुना कुत्र कोऽपि कर्मकरः नास्ति?
(ग) केषाम् आवागमनं स्वयमेव भवति?
(घ) एकस्मिन् वर्गे कति छात्राः अपठन्?
प्रश्न 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः।
(क) ………………………………. ऋतवः भवन्ति।
(ख) मासा: ………………………………. भवन्ति ।
(ग) एकस्मिन् मासे ………………………………. अथवा ………………………………. दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यत: ………………………………. दिनानि भवन्ति।
(ङ) मम शरीरे ………………………………. हस्तौ स्तः।
उत्तरम्:
(क) षड् ऋतवः भवन्ति।
(ख) मासाः द्वादश भवन्ति।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।
ध्यातव्यम्
वैदिकपरम्परानुसारं भारतीयमासानां ऋतूनां च नामानि-
मूलपाठः
1. कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्य पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन्। तत्र अष्टादश-प्रकोष्ठेषु पञ्चाशत् गवाक्षाः, चतुश्चत्वारिंशत् द्वाराणि च आसन्। परं कृष्णमूर्तेः माता पिता च कृषकदम्पती। तस्य वासगृहं आडम्बरविहीन सुन्दरञ्च आसीत्।
एकदा श्रीकण्ठः तेन सह तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। तस्य गृहे कोऽपि कर्मकरः नासीत्। एतत् दृष्ट्वा श्रीकण्ठः अकथयत्- “मित्र! अहं भवताम् आतिथ्येन सन्तुष्टोऽस्मि। केवलम् एतदेव तथ्यं मां दुःखयति यत् तव गृहे एकोऽपि भृत्यः नास्ति येन मम आतिथ्याय भवन्तः कष्ट कुर्वन्ति। मम गृहे तु बहवः कर्मराः सन्ति।”
हिन्दी-अनुवाद :
कृष्णमूर्ति और श्रीकण्ठ (दोनों) मित्र थे। श्रीकण्ठ के पिता धनवान् थे। इसलिए उसके घर में सब प्रकार के सुख-साधन थे। उसके विशाल भवन में चालीस खम्बे थे। वहाँ अठारह कमरों में पचास झरोखे और चालीस दरवाजे थे परन्तु कृष्णमूर्ति के माता-पिता किसान थे। उनका रहने का घर आडम्बरों (दिखाने) से रहित और सुन्दर था।
एक बार श्रीकण्ठ उसके साथ उसके घर गया। वह कृष्णमूर्ति के माता-पिता ने अपनी शक्ति के अनुसार श्रीकण्ठ का अतिथि सत्कार किया। उसके घर में कोई भी नौकर नहीं था। यह देखकर श्रीकण्ठ ने कहा- “मित्र! मैं आपके अतिथि सत्कार से सन्तुष्ट हूँ। केवल यही तथ्य मुझे दुःख दे रहा है कि तुम्हारे घर में एक भी नौकर नहीं है। इस कारण मेरे आतिथ्य के लिए आप कष्ट कर रहे हैं। मेरे घर में तो अनेक नौकर हैं।”
2. तदा स्वावलम्बी कृष्णमूर्तिः अवदत्-“मित्र! ममापि अष्टौ कर्मकराः सन्ति। ते च द्वौ पादौ, द्वौ हस्तो, द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं ममाधीनाः। परन्तु तव भृत्याः अहर्निश कर्माणि कर्तुं न शक्नुवन्ति। त्वं तु स्वकार्यार्थं स्वभृत्याधीनः। यदा यदा ते अनुपस्थिताः, तदा तदा त्वं कष्टम् अनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव, न कदापि कष्टं भवति।”
अहं मासे मासे ऋतौ ऋतौ च स्व-दिनचर्याम् अनुकूलयामि। एतत् श्रुत्वा श्रीकण्ठः अकथयत्-“मित्र! अहं तु न जानाम के मासाः भवन्ति के च ऋतवः।” एतत् श्रुत्वा कृष्णमूर्तिः द्वादशमासानां षण्णाम् ऋतूनां च नामानि अवदत्। श्रीकण्ठः अपृच्छत्-“एकस्मिन् मासे कति दिनानि भवन्ति।” कृष्णमूर्तिः अवदत्-“एकस्मिन् मासे त्रिंशत् एकत्रिंशत् वा दिनानि भवन्ति। फरवरी-मासे अष्टाविंशतिः दिनानि श्रावन्ति। परन्तु तत्र प्रत्येक चतुर्थे वर्षे दिनानां संख्या एकोनविंशतिः भवति।” श्रीकण्ठः अवदत्-“मित्र! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव करिष्यामि।”
हिन्दी-अनुवाद :
तब स्वावलम्बी कृष्णमूर्ति बोला-“मित्र ! मेरे भी आठ नौकर हैं। वे हैं-दो पैर, दो हाथ, दो नेत्र और दो कान, ऐसा। ये प्रतिक्षण मेरे अधीन हैं परन्तु तुम्हारे नौकर दिन-रात काम नहीं कर सकते। तुम तो अपना काम करने के लिए अपने नौकरों के अधीन हो। जब-तक वे अनुपस्थित होते हैं, तब-तब तुम कष्ट का अनुभव करते हो। स्वावलम्बन में तो हमेशा सुख ही है, कभी कष्ट नहीं होता है।”
मैं हर महीने और हर ऋतु में अपनी दिनचर्या को अपने अनुकूल कर लेता हूँ। यह सुनकर श्रीकण्ठ ने कहा-“मित्र ! मैं तो नहीं जानता, कौन-से महीने होते हैं और कौन-सी ऋतुएँ।” यह सुनकर कृष्णमूर्ति ने ,बारह महीनों और छ: ऋतुओं के नाम बताए। श्रीकण्ठ ने पूछा-“एक महीने में कितने दिन होते हैं ?” कृष्णमूर्ति बोला-“एक महीने में तीस या इकत्तीस दिन होते हैं। फरवरी के महीने में अट्ठाईस दिन होते हैं। लेकिन हर चौथे वर्ष में दिनों की संख्या उनत्तीस होती है।” श्रीकण्ठ बोला-“मित्र । तुम्हारी बातें सुनकर मेरे मन में बहुत प्रसन्नता हुई है। अब मैं भी अपने काम स्वयं ही करूँगा।”
सन्धिच्छेदा: –
श्रीकण्ठश्च = श्रीकण्ठः + च। चतुश्चत्वारिंशत् – चतु: + चत्वारिंशत्। सुंदरञ्च – सुंदरम् + चा कोऽपि – कः + अपि। नासीत् = न + आसीत्। संतुष्टोऽस्मि – संतुष्टः + अस्मि। एतदेव = एतत् + एव। एकोऽपि = एक: + अपि। नास्ति = न + अस्ति। स्वावलम्बी – स्व + अवलम्बी। ममापि – मम + अपि। ममाधीनाः = मम + अधीनाः। अहर्निशम् – अहः + निशम्। स्वकार्यार्थम् = स्वकार्य + अर्थम्। स्वभृत्याधीनाः – स्वभृत्य + अधीनाः। स्वावलम्बने = स्व + अवलम्बने। कदापि = कदा + अपि। प्रत्येकम् = प्रति + एकम्। एकोनविंशतिः – एक + ऊनविंशतिः।
संयोगाः – अनुपस्थिताः – अन् + उपस्थिताः। सुखमेव – सुखम् + एव। अहमपि = अहम् + अपि। स्वयमेव = स्वयम् + एव।