Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 2 दुर्बुद्धिः विनश्यति Textbook Exercise Questions and Answers.
Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 2 दुर्बुद्धिः विनश्यति
प्रश्न 1.
उच्चारणं करुत-
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | हृदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
उत्तरम्:
स्वयं उच्चारण कीजिए।
प्रश्न 2.
एकपदेन उत्तरत
(क) कूर्मस्य किं नाम आसीत्?
(ख) सरस्तीरे के आगच्छन्?
(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
उत्तरम्:
(क) कम्बुग्रीवः
(ख) धीवराः
(ग) आकाशमार्गेण
(घ) गोपालकाः।।
प्रश्न 3.
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
उत्तरम्:
प्रश्न 4.
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत
अभिनन्दति, भक्षयिष्यामः, इच्छामि, वदिष्यामि, उड्डीयते, प्रतिवसति स्म।।
(क) हंसाभ्यां सह कूर्मोऽपि ………………………।
(ख) अहं किञ्चिदपि न ………………………।
(ग) यः हितकामानां सुहृदां वाक्यं न ………………………।
(घ) एकः कूर्मः अपि तत्रैव ………………………।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् ………………………।
(च) वयं गृहं नीत्वा कूर्म ………………………।
उत्तरम्:
(क) उड्डीयते
(ख) वदिष्यामि
(ग) अभिनन्दति
(घ) प्रतिवसति स्म
(ङ) इच्छामि
(च) भक्षयिष्यामः।
प्रश्न 5.
पूर्णवाक्येन उत्तरत
(क) कच्छपः कुत्र गन्तुम् इच्छति?
(ख) कच्छपः कम् उपायं वदति?
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?
उत्तरम्:
(क) कच्छपः सरोवरात् अन्यत्र गन्तुम् इच्छति।
(ख) कच्छपः वदति-युवाम् एकं काष्ठदण्डम् चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि।
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अवदन्-हंहो! महदाश्चर्यम् हंसाभ्याम् सह कूर्मोऽपि उड्डीयते
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य अवदत्-“यूयं भस्म खादत।”
प्रश्न 6.
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।
(ख) गोपालकाः अकथयन्-वयं पतितं कूर्मं खादिष्यामः।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(च) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।
(छ) कूर्मः आकाशात् पतितः गोपालकैः मारितश्च।
(ज) ‘वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।
उत्तरम्:
(क) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(ख) केचित् धीवराः सरस्तीरे आगच्छन्।
(ग) ‘वयं श्व: मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।
(घ कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(ङ)) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।
(च) लम्बमानं कूर्म दृष्ट्वा गोपालकाः अधावन्।
(छ) गोपालकाः अकथयन्-वयं पतितं कूर्म खादिष्यामः।
(ज) कूर्मः आकाशात् पतित: गोपालकैः मारितश्च।
प्रश्न 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
जलाशयम्, अचिन्तयत्, वृद्धः, दुःखिताः, कोटरे, वृक्षस्य, सर्पः,आदाय, समीपे।।
(क) एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म। तस्य वृक्षस्य ……………………. (1) ……………………. एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ……………………. (2) ……………………. काकानां शिशून् खादति स्म। काकाः ……………………. (3) ……………………. आसन्। तेषु एकः ……………………. (4) ……………………. काकः उपायम् ……………………. (5) …………………….। वृक्षस्य ……………………. (6) ……………………. जलाशयः आसीत् तत्र एका राजकुमारी स्नातुं ……………………. (7) ……………………. आगच्छति। शिलायां स्थितं तस्याः आभरणम् ……………………. (8) ……………………. एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य ……………………. (9) ……………………. समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्। अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
उत्तरम्:
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एक: वृद्धः काकः उपायम् अचिन्तयत् । वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काक: वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्प च अमारयन्। अत: एवोक्तम्-‘उपायेन सर्व सिद्ध्यति’।
ध्यातव्यम्
इयं कथा ‘पञ्चतन्त्रम्’ इति ग्रन्थात् उद्धृता। पञ्चतन्त्रस्य लेखक: विष्णुशर्मा। पञ्चानां तन्त्राणां समाहारः पञ्चतन्त्रम् इति। अतः पञ्चतन्त्रस्य पञ्चभागाः सन्ति-मित्रभेदः, मित्रलाभः, सन्धिविग्रहः, लब्धप्रणाश: अपरीक्षितकारकञ्च।
अस्मिन् पाठे अनवसरे भाषणेन कथं सर्वनाशः भवतीति दर्शितम्। क्वचित् मौनं कार्यसाधकं भवति ।
यथोक्तम्वि –
भूषणं मौनमपण्डितानाम्।
मूखो हि शोभते तावत् यावत् किञ्चिन्न भाषते।
ध्यान देने योग्य ( पाठ का परिचय)
यह कथा ‘पञ्चतन्त्रम्’ नामक पुस्तक से ली गई है। ‘पञ्चतन्त्र’ के लेखक पं० विष्णु शर्मा थे। ‘पञ्चानां तन्त्राणां समाहारः पञ्चतन्त्रम्’-पाँच तन्त्रों के समूह को ‘पञ्चतन्त्र’ कहा जाता है। इसीलिए ‘पञ्चतन्त्र’ के भी पाँच भाग हैं-
1. मित्रभेदः
2. मित्रलाभः
3. सन्धिविग्रहः
4. लब्धप्रणाशः
5. अपरीक्षितकारकम्।
इस पाठ में यह दिखाया गया है कि बिना अवसर के बोलने पर किस प्रकार सर्वनाश हो जाता है। कभी-कभी ‘मौन’ (चुप रहना) भी कार्य सिद्ध करने वाला होता है। जैसे कि कहा भी गया है।
मूलपाठः
1. अस्ति मगधदेशे पुल्लोत्पलनाम सरः। तत्र संकटविकटनामको हंसी निवसतः। कुम्बग्रीवनामा तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म।
अथ एकदा धीवराः तत्र आगच्छन् अकथयन् च-वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः। एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे! किं युवाभ्यां धीवारणां वार्ता श्रुत्वा ? अधुना किम् अहं करोमि ?” हंसौ अवदातम्-“प्रातः यद् उचित तत्कर्त्तव्यम्।” कूर्मः अवदत्-“मैवम्। तद् यथाऽहम् अन्यं हवं गच्छामि तथा कुरुतम्।” हंसी अवदताम्-“आवां किं करवाव ?” कूर्मः अवदत्-“अहं भवद्भ्यां सह आकाशमार्गेण अन्यत्र गुन्तम् इच्छामि।”
हंसौ’ अवदताम्-“अत्र कः उपाये: ?” कच्छपः वदति-“युवां काष्ठदण्डम् एकं चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये अवलम्व्य युवाभ्यां पक्षबलेन सुखेन गमिष्यामि।” हंसी अकथयताम्-“सम्भवति एषः उपायः। किन्तु अत्र एकः अपायोऽपि वर्तते। आवाभ्यां नीयमानं त्वामवलोक्य जनाः किञ्चिद् वदिष्यन्ति एव। यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्। अतः त्वम् अत्रैव वस।” तत् श्रुत्वा क्रुद्धः कूर्मः अवदत्-“किमहं मूर्खः ? उत्तरं न दास्यामि। किञ्चिदपि न वदिष्यामि।” अतः अहं यथा उक्तवान् तथा युवां कुरुतम्।
हिन्दी-अनुवाद :
मगध देश में फुल्लोत्पल नाम का एक तालाब था। वहाँ संकट और विकट नाम के दो हंस रहते थे। कम्बुग्रीव नाम वाला उन दोनों का एक मित्र कछुआ भी वहीं रहता था।
इसके बाद एक बार (कुछ) मछुआरे वहाँ आए और बोले-हम कल (यहाँ) मछली, कछुए आदि मारेंगे। यह सुनकर कछुआ बोला-“मित्रो! क्या तुम दोनों ने मछुआरों की बात सुनी? अब मैं क्या करूँ ?” दोनों हंस बोले-“सुबह जो उचित हो वह करना चाहिए।” कछुआ बोला-“ऐसा नहीं। तुम दोनों ऐसा उपाय करो, कि मैं दूसरे तालाब में चला जाऊँ।” दोनों हंस बोले-“हम दोनों क्या करें।” कछुआ बोला-“मैं तुम दोनों के साथ आकाश-मार्ग से कहीं दूसरी जगह जाना चाहता हूँ।”
हंसों ने कहा-” यह क्या उपाय है ?” कछुआ कहता है-“तुम दोनों लकड़ी का एक डण्डा चोंच से पकड लो। मैं लकड़ी के डण्डे के बीच में लटककर तुम दोनों के पंखों के बल से सुख से जाऊँगा।” हंसों ने कहा-“यह उपाय हो सकता है, किन्तु यहाँ (इसमें) एक हानि भी है। हम दोनों द्वारा ले जाए जाते समय लोग कुछ कहेंगे ही। यदि तुम उत्तर दोगे, तभी तुम्हारा मरना निश्चित है। इसलिए तुम यहीं रहो।” यह सुनकर क्रोधित कछुआ बोला-“क्या मैं मूर्ख हूँ ? उत्तर नहीं दूंगा। कुछ भी नहीं बोलूंगा।” इसलिए मैंने जैसा कहा वैसा तुम दोनों करो।
मूलपाठः
2. एवं कृते काष्ठदण्डे लम्बमानं कूर्म दृष्ट्वा गोपालकाः पश्चाद् अधावन् अवदन् च-“हहो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।” कश्चिद् वदति-“यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।” अपर: अवदत्- “सरस्तीरे दग्ध्वा खादिष्यामि।” अन्यः अकथयत्-“गृहं नीत्वा भक्षयिष्यामि” इति।
तेषां तद् वचनं श्रुत्वा कूर्मः मित्रयोः दत्तं वचनं विस्मृत्य कोपेन अवदत्-“यूयं भस्म खादत” इति वदन्नेव कूर्मः आकाशात् पतितः गोपालकैः मारितश्च। अत एवोक्तम्-
सुहृदां हितकामानां वाक्यं यो नाभिनन्दति।।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति॥
अन्वय:
य: हितकामानां सुहुदां वाक्यं न अभिनन्दति, सु: दुर्बुद्धि: कूर्म: इव काष्ठात् भ्रष्टः विनश्यति।
हिन्दी-अनुवाद :
ऐसा करने पर लकड़ी के डण्डे पर लटकते हुए कछुए को देखकर ग्वाले पीछे दौड़ने लगे और बोले-“अरे। महान् आश्चर्य है। हंसों के साथ कछुआ भी उड़ रहा है।” कोई कहता है-“यदि यह कछुआ किसी तरह गिरता है, तो यहीं पकाकर खा जाऊँगा।” दूसरे ने कहा-” तालाब के किनारे भूनकर खाऊँगा।” अन्य ने कहा-“घर ले जाकर खाऊँगा।” ऐसा।
उनके उस वचन को सुनकर कछुआ मित्रों को दिया हुआ वचन भूलकर गुस्से से बोला-“तुम सब राख खा लो।” ऐसा बोलते हुए ही कछुआ आकाश से गिर गया और ग्वालों के द्वारा मार दिया गया।
इसीलिए कहा गया- “हित (कल्याण) चाहने वाले मित्रों की बात जो खुशी से नहीं मानता है, वह दुष्टबुद्धि कछुए की तरह लकड़ी से गिरकर नष्ट हो जाता है।”
सन्धिच्छेदाः
फुल्लोत्पनाम् = फुल्ल + उत्पलनामा तत्रैव = तत्र + एव। मत्स्य-कूर्मादीन् – मत्स्य-कूर्म + आदीन्। मैवम् – मा + एवम्। तद् यथाऽहम् = तत् + यथा + अहम्। अपायोऽपि = अपायः + अपि। किञ्चिद् = किम् + चिद्। अत्रैव – अत्र + एव। किञ्चिदपि = किम् + चित् + अपि। महदाश्चर्यम् = महत् + आश्चर्यम्। कूर्मोऽपि = कूर्मः + अपि। यद्ययम् – यदि + अयम्। वदन्नेव = वदन् + एव। मारितश्चमारितः + च। अत एवोक्तम् = अतः + एव + उक्तम्। यो नाभिनन्दति = यः + न + अभिनन्दति। स कूर्म इव = स: + कूर्मः + इव। काष्ठा भ्रष्टो विनश्यति काष्ठात् + भ्रष्टः + विनश्यति। संयोगः त्वामवलोक्य – त्वाम् + अवलोक्य। त्वमुत्तरम् – त्वम् + उत्तरम्। किमहम् = किम् + अहम्।।