HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

Haryana State Board HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला Textbook Exercise Questions and Answers.

Haryana Board 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

HBSE 10th Class Sanskrit जननी तुल्यवत्सला Textbook Questions and Answers

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कृषकः किं करोति स्म ? ।
(ख) माता सुरभिः किमर्थं अश्रूणि मुञ्चति स्म ?
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?
(घ) मातुः अधिका कृपा कस्मिन् भवति ?
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुम् किं कृतवान् ?
(च) जननी कीदृशी भवति ?
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते ? ।
उत्तराणि:
(क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः भूमौ पतिते स्वपुत्रं दृष्ट्वा अश्रूणि मुञ्चति स्म।
(ग) सुरभिः उत्तरं ददाति- हे इन्द्र! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(घ) मातुः अधिका कृपा दीने पुत्रे भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुम् प्रचण्ड-वर्षां कृतवान् ।
(च) जननी तुल्यवत्सला भवति।
(छ) पाठेऽस्मिन् सुरभि-इन्द्रयोः संवादः विद्यते।

HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

प्रश्न 2.
‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः करुत
क स्तम्भः ख स्तम्भः
(क) कृच्छ्रेण (i) वृषभः
(ख) चक्षुभ्याम् (ii) वासवः
(ग) जवेन (iii) नेत्राभ्याम्
(घ) इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम् (vi) काठिन्येन
(छ) बलीवर्दः (vii) सुताः
उत्तराणि:
क स्तम्भः ख स्तम्भः
(क) कृच्छ्रेण (vi) काठिन्येन
(ख) चक्षुभ्याम् (iii) नेत्राभ्याम्
(ग) जवेन (v) द्रुतगत्या
(घ) इन्द्रः (i) वासवः
(ङ) पुत्राः (vii) सुताः
(च) शीघ्रम् (iv) अचिरम्
(छ) बलीवर्दः (i) वृषभः

HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

प्रश्न 3.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) सः कृच्छ्रेण भारम् उद्वहति ।
(ख) सुराधिपः ताम् अपृच्छत् ।
(ग) अयम् अन्येभ्यो दुर्बलः।
(घ) धेनूनाम् माता सुरभिः आसीत्।
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दुःखी आसीत्।
उत्तराणि:
(क) सः कथं भारम् उद्वहति?
(ख) कः ताम् अपृच्छत् ?
(ग) अयम् केभ्यो दुर्बल:?
(घ) केषाम् माता सुरभिः आसीत् ?
(ङ) कति पुत्रेषु सत्स्वपि सा दुःखी आसीत् ?

प्रश्न 4.
रेखांकितपदे यथास्थानं सन्धि विच्छेदं वा कुरुत
(क) कृषक: क्षेत्रकर्षणं कुर्वन्+आसीत्
(ख) तयोरेकः वृषभः दुर्बलः आसीत्।
(गं) तथापि वृषः न+उत्थितः
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम् ?
(ङ) तथा+अपि+अहम् एतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहूनि+अपत्यानि सन्ति।
(छ) सर्वत्र जलोपप्लवः संजातः।
उत्तराणि:
(क) कृषकः क्षेत्रकर्षणं कुर्वन्नासीत्
(ख) तयोः + एकः वृषभः दुर्बलः आसीत्।
(ग) तथापि वृषः नोत्थितः
(घ) सत्सु + अपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम् ?
(ङ) तथाप्यहमेतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहून्यपत्यानि सन्ति।
(छ) सर्वत्र जल + उपप्लवः संजातः ।

HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

प्रश्न 5.
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्
(क) सा च अवदत् भो वासव! अहम् भृशं दुःखिता अस्मि।
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।
(घ) मे बहूनि अपत्यानि सन्ति।
(ङ) सः च ताम् एवम् असान्त्वयत्।
(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति ।
उत्तराणि:
(क) सुरभिः- इति पदस्य कृते ।
(ख) सुरभिः- इति पदस्य कृते।
(ग) कृषकः- इति पदस्य कृते।
(घ) सुरभेः- इति पदस्य कृते।
(ङ) इन्द्रः- इति पदस्य कृते।
(च) सुरभेः- इति पदस्य कृते।

प्रश्न 6.
उदाहरणमनुसृत्य पाठात् चित्वा प्रकृति प्रत्यय विभागं कुरुतःयथा – सुरभिवचनं श्रुत्वा इन्द्रः विस्मितः । (श्रु+क्त्वा)
(क) बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्
(ख) स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः नेत्राभ्यां अश्रूणि आविरासन्।
(ग) सः दीनः इति जानन् अपि पीडयति।
(घ) धुरं वोढुं सः न शक्नोति।
(ङ) विशिष्य आत्मवेदनानुभवामि।
(च) वृषभो नीत्वा गृहमगात्।
उत्तराणि:
(क) कुर्वन् = कृ + शतृ।
(ख) दृष्ट्वा = दृश् + क्त्वा।
(ग) जानन् = कृ + शतृ।
(घ) वोढुम् = वह् + तुमुन् ।
(ङ) विशिष्य = वि + शिष् + ल्यप्।
(च) नीत्वा = नी + क्त्वा।

HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

प्रश्न 7.
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत
क स्तम्भ ख स्तम्भ
(क) कश्चित् (i) वृषभम्
(ख) दुर्बलम् (ii) कृपा
(ग) क्रुद्धः , (iii) कृषीवल:
(घ) सहस्राधिकेषु (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च) विस्मितः (vi) पुत्रेषु
(छ) तुल्यवत्सला (vii) कृषक:
उत्तराणि-
क स्तम्भ ख स्तम्भ
(क) कश्चित् (vii) कृषकः
(ख) दुर्बलम् (i) वृषभम्
(ग) क्रुद्धः (iii) कृषीवलः
(घ) सहस्राधिकेषु (vi) पुत्रेषु
(ङ) अभ्यधिका (ii) कृपा
(च) विस्मितः (iv) आखण्डल:
(छ) तुल्यवत्सला (v) जननी

HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

योग्यताविस्तारः

प्रस्तुत पाठ्यांश महाभारत से उद्धृत है, जिसमें मुख्यतः व्यास द्वारा धृतराष्ट्र को एक कथा के माध्यम से यह संदेश देने का प्रयास किया गया है कि तुम पिता हो और एक पिता होने के नाते अपने पुत्रों के साथसाथ अपने भतीजों के हित का खयाल रखना भी उचित है। इस प्रसंग में गाय के मातृत्व की चर्चा करते हुए गोमाता सुरभि और इन्द्र के संवाद के माध्यम से यह बताया गया है कि माता के लिए सभी सन्तान बराबर होती हैं। उसके हृदय में सबके लिए समान स्नेह होता है। इस कथा का आधार महाभारत, वनपर्व, दशम अध्याय, श्लोक संख्या 8 से श्लोक संख्या 16 तक है। महाभारत के विषय में एक श्लोक प्रसिद्ध है,

धर्मे अर्थे च कामे च मोक्षे च भरतर्षभ
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्।।

अर्थात्- धर्म, अर्थ, काम और मोक्ष इन पुरुषार्थ-चतुष्टय के बारे में जो बातें यहाँ हैं वे तो अन्यत्र मिल सकती हैं, पर जो कुछ यहाँ नहीं है, वह अन्यत्र कहीं भी उपलब्ध नहीं है।
उपरोक्त पाठ में मानवीय मूल्यों की पराकाष्ठा दिखाई गई है। यद्यपि माता के हृदय में अपनी सभी सन्ततियों के प्रति समान प्रेम होता है, पर जो कमज़ोर सन्तान होती है उसके प्रति उसके मन में अतिशय प्रेम होता है।

मातृमहत्त्वविषयक श्लोकनास्ति
मातृसमा छाया, नास्ति मातृसमा गतिः। – वेदव्यास
नास्ति मातृसमं त्राणं, नास्ति मातृसमा प्रिया।।
उपाध्यायान्दशाचार्य, आर्चायेभ्यः शतं पिता।
सहस्रं तु पितॄन् माता, गौरवेणातिरिच्यते।। – मनुस्मृति
माता गुरुतरा भूमेः, खात् पितोच्चतरस्तथा।
मनः शीघ्रतरं वातात्, चिन्ता बहुतरी तृणात्।। – महाभारत
निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः।
यत् कमपि वहति गर्भे महतामपि स गुरुर्भवति।।

भारतीय संस्कृति में गौ का महत्त्व अनादिकाल से रहा है। हमारे यहाँ सभी इच्छित वस्तुओं को देने की क्षमता गाय में है, इस बात को कामधेनु की संकल्पना से समझा जा सकता है। कामधेनु के बारे में यह माना जाता है कि उनके सामने जो भी इच्छा व्यक्त की जाती है वह तत्काल फलवती हो जाती है।

काले फलं यल्लभते मनुष्यो
न कामधेनोश्च समं द्विजेभ्यः।।
कन्यारथानां करिवाजियुक्तैः
शतैः सहस्रैः सततं द्विजेभ्यः॥
दत्तैः फलं यल्लभते मनुष्यः ।
समं तथा स्यान्नतु कामधेनोः॥

गाय के महत्त्व के संदर्भ में महाकवि कालिदास के रघुवंश में, सन्तान प्राप्ति की कामना से राजा दिलीप द्वारा ऋषि वशिष्ठ की कामधेनु नन्दिनी की सेवा और उनकी प्रसन्नता से प्रतापी पुत्र प्राप्त करने की कथा भी काफ़ी प्रसिद्ध है। आज भी गाय की उपयोगिता प्रायः सर्वस्वीकृत ही है।

एकत्र पृथ्वी सर्वा, सशैलवनकानना।
तस्याः गौायसी, साक्षादेकत्रोभयतोमुखी।।
गावो भूतं च भव्यं च, गावः पुष्टिः सनातनी।
गावो लक्ष्म्यास्तथाभूतं, गोषु दत्तं न नश्यति।।

HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

HBSE 10th Class Sanskrit जननी तुल्यवत्सला Important Questions and Answers

जननी तुल्यवत्सला पठित-अवबोधनम्

1. निर्देशः-अधोलिखितं पाठ्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत
कश्चित् कृषकः बलीवाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि ? उच्यताम्” इति। सा च

विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः ।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!॥

“भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न ?’ इति प्रत्यवोचत्।

पाठ्यांश-प्रश्नोत्तर:
(अ) एकपदेन उत्तरत
(क) शरीरेण दुर्बलः कः आसीत् ?
(ख) पुत्रस्य दैन्यं दृष्ट्वा का रोदिति ?
उत्तराणि:
(क) बलीवर्दः,
(ख) माता सुरभिः ।

(आ) पूर्णवाक्येन उत्तरत
(क) कृषकः बलीवर्दाभ्यां किं कुर्वन्नासीत् ?
(ख) सुरभिः केषां माता अस्ति?
उत्तराणि:
(क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् ।
(ख) सुरभिः सर्वधेनूनां माता अस्ति।

(ई) निर्देशानुसारम्
उत्तरत
(क) पीडयति-इति क्रियापदस्य कर्तृपदं लिखत।

(ख) जानन्-अत्र कः प्रत्ययः प्रयुक्तः?
उत्तराणि
(क) कृषकः, (ख) शतृ।

हिन्दीभाषया पाठबोधः
शब्दार्था:-बलीवर्दाभ्याम् = (वृषभाभ्याम्) दो बैलों से। क्षेत्रकर्षणम् = (क्षेत्रस्य कर्षणम्) खेत की जुताई। जवेन = (तीव्रगत्या) तीव्रगति से। तोदनेन = (कष्टप्रदानेन) कष्ट देने से । नुद्यमानः = (बलेन नीयमानः) धकेला जाता हुआ, हाँका जाता हुआ। हलमूढ्वा = (हलम् आदाय) हल उठाकर, हल ढोकर। पपात = (भूमौ अपतत्) गिर गया। कृषीवलः = (कृषकः) किसान। उत्थापयितुम = उपरि नेतुम्) उठाने के लिए। वृषः (वृषभः) बैल। धेनूनाम् = (गवाम्) गायों की। नेत्राभ्याम् (चक्षुाम्, नयनाभ्याम्) दोनों आँखों से। अणि (नयनजलम्) आँसू। आविरासन् (आगताः) आने लगे, आए। सुराधिपः (सुराणां राजा, देवताओं के राजा (इन्द्र)। (देवानाम् अधिपः) उच्यताम् = (कथ्यताम्) कहें, कहा जाए। वासव = इन्द्रः, देवराजः) इन्द्र। कृच्छेण = (काठिन्येन) कठिनाई से। इतरमिव = (भिन्नम् इव दूसरों के समान। धरम् = (धुरम्) जुए को (गाड़ी के जुए का वह भाग। जो बैलों के कंधों पर रखा रहता है)। वोदुम् = (वहनाय योग्यम्) ढोने के लिए। प्रत्यवोचत = (उत्तरं दत्तवान्) जवाब दिया।

हिन्दी में अनुवाद- कोई किसान दो बैलों से अपना खेत की जुताई कर रहा था। उन दोनों बैलों में से एक शरीर से दुर्बल था और वह है तेज गति से चलने में असमर्थ था। इसीलिए किसान उस दुबले बैल को हाँकने वाली छड़ी से हाँक रहा था। वह बैल हल को लेकर जाने में असमर्थ था इसलिए खेत में गिर पड़ा। क्रोधित किसान ने उसको उठाने के लिए बहुत बार यत्न किया। तो भी बैल नहीं उठा।

भूमि पर गिरे हुए अपने पुत्र को देखकर सभी गायों की माता सुरभि की आंखों से आंसू गिर रहे थे। सुरभि की इस अवस्था को देखकर देवताओं के राजा इन्द्र ने सुरभि से पूछा – “हे कल्याणी! इस प्रकार क्यों रो रही हो? बताओ।” और उसने भी (उत्तर देते हुए कहा)

“देवताओं के राजा इन्द्र! आपने कभी अपने किसी परिवारजन का पतन होता हुआ नहीं देखा। (मैंने देखा है, इसीलिए) मैं अपने पुत्र का शोक मना रही हूं और इसी कारण मैं रो रही हूं ॥” ।

“हे इन्द्र! मैं अपने पुत्र की दीनता को देखकर रो रही हूँ। वह दीन (अति दुर्बल) है यह जानते हुए भी किसान उसे अनेक प्रकार से पीड़ित कर रहा है। वह बड़ी कठिनता से भार को उठा रहा है। वह दूसरे जुए को उठाने में समर्थ नहीं है। यह तो आप देख रहे हैं न।” – ऐसा उसने उत्तर दिया।

HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

2. निर्देशः-अधोलिखितं पाठ्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम् ?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत् –

यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

“बहून्यपत्यानि मे सन्तीति सत्यम्। तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि। यतो हि अयमन्येभ्यो दुर्बलः। सर्वेष्वपत्येषु जननी तुल्यवत्सला एव। तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। स च तामेवमसान्त्वयत्-” गच्छ वत्से! सर्वं भद्रं जायेत।”
HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला
अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत। पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः। कृषक: हर्षतिरेकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।

अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्॥

पाठ्यांश-प्रश्नोत्तर

(अ) एकपदेन उत्तरत
(क) केन पृष्टा सुरभिः प्रत्यवोचत्?
(ख) सर्वेष्वपत्येषु जननी कीदृशी भवति?
उत्तराणि:
(क) इन्द्रेण,
(ख) तुल्यवत्सला।

(आ) पूर्णवाक्येन उत्तरत
(क) सुरभिवचनं श्रुत्वा कस्य हृदयमद्रवत् ?
(ख) केन सह प्रवर्षः समजायत?
उत्तराणि:
(क) सुरभिवचनं श्रुत्वा विस्मितस्य आखण्डलस्य हृदयमद्रवत्।
(ख) चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।

(ई) निर्देशानुसारम् उत्तरत
(क) इन्द्रस्य-इति पदस्य अत्र कः पर्यायः ?
(ख) नीत्वा-अत्र कः प्रत्ययः प्रयुक्तः?
उत्तराणि:
(क) आखण्डलस्य,
(ख) क्त्वा।

हिन्दीभाषया पाठबोधः

शब्दार्थाः-
नूनम् =(निश्चयेन) निश्चय ही। सहस्रम् = (दशशतम्) हजार। वात्सल्यम् = (स्नेहभावः) वात्सल्य (प्रेमभाव)। अपत्यानि = (सन्ततयः) सन्तान। विशिष्य = (विशेषतः) विशेषकर। वेदनाम् = (पीड़ाम्, दुःखम्) कष्ट को। तुल्यवत्सला = (समस्नेहयुता) समान रूप से प्यार करने वाली। सुतः = (पुत्रः। तनयः) पुत्र। भृशम् = (अत्यधिकम्) बहुत अधिक। आखण्डलस्य = (देवराजस्य इन्द्रस्य) इन्द्र का। असान्त्वयत् =(सान्त्वना दत्तवान्, सान्त्वना दी (दिलासा दी)। समाश्वासयत्) अचिरात् = (शीघ्रम्) शीघ्र ही। चण्डवातेन =(वेगयुता वायुना) प्रचण्ड (तीव्र) हवा से। मेघरवैः = (मेघस्य गर्जनेन) बादलों के गर्जन से। प्रवर्षः = (वृष्टिः) वर्षा । जलोपप्लवः (जलस्य विपत्तिः) जलसंकट (उपप्लवः विपत्ति)। कर्षणविमुखः = (कर्षणकर्मणा विमुखः)

जोतने के काम से विमुख होकर। वृषभौ (वृषौ) दोनों बैलों को। अगात् = (गतवान्, अगच्छत्) गया। त्रिदशाधिपः = (त्रिदशानाम् अधिपः-इन्द्रः,) देवताओं का राजा इन्द्र। प्रतोदेन = (अत्यधिकेन कष्टप्रददण्डेन) कष्टदायक डण्डे से। अभिघ्नन्तम् = (मारयन्तम्) मारते हुए। लाङ्गलेन = (हलेन) हल से। निपीडितम् = (पीड़ितोऽभवत्) पीड़ित होते हुए।

हिन्दी में अनुवाद: “(इन्द्र ने कहा-) हे कल्याणी! अवश्य । तुम्हारे हजारों पुत्रों के रहते हुए भी इस दुर्बल पुत्र के प्रति ऐसा वात्सल्य क्यों?” -इस प्रकार इन्द्र के द्वारा पूछे जाने पर सुरभि ने उत्तर दिया- “यद्यपि मेरे हजारों पुत्र हैं परंतु मेरा प्रेम सब के प्रति एक समान है। परन्तु हे इन्द्र! जो दीन अर्थात् असहाय पुत्र है उसके प्रति तो और भी अधिक कृपा का भाव होना (स्वाभावकि ही) है।॥”

“मेरे बहुत से पुत्र हैं यह बात सत्य है। तो भी इस पुत्र के प्रति मैं विशेष रूप से अपनी पीड़ा का अनुभव कर रही हूं। क्योंकि यह दूसरों की अपेक्षा दुर्बल है। सभी पुत्रों में माता की ममता एक समान ही होती है। तो भी दुर्बल पुत्र में माता का अत्यधिक प्रेम अथवा उसकी कृपा होना स्वाभाविक ही है।” सुरभि के इस वचन को सुनकर अत्यधिक आश्चर्यचकित इन्द्र देवता का हृदय भी द्रवित हो गया। और उसने सांत्वना देते हुए कहा “हे पुत्री ! जाओ तुम्हारा सब प्रकार से कल्याण ही हो।” शीघ्र ही प्रचंड वायु के वेग और बादलों की गर्जना के साथ वर्षा हुई। देखते-देखते सभी जगह जल ही जल हो गया। किसान अत्यधिक खुशी के कारण हल जोतने के कार्य से विमुख होकर दोनों बैलों को लेकर घर की ओर चला गया।

“सभी पुत्रों में माता का प्रेम समान होता है। असहाय पुत्र के प्रति तो वह माता और भी अधिक दयालु हृदय वाली हो जाया करती है।”

HBSE 10th Class Sanskrit Solutions Shemushi Chapter 5 जननी तुल्यवत्सला

जननी तुल्यवत्सला (माँ का प्रेम सबके प्रति एक समान) Summary in Hindhi

जननी तुल्यवत्सला पाठ-परिचय

महाभारत भारतीय संस्कृति का एक बहुत ही महत्वपूर्ण ग्रंथ है। इसमें केवल भारत की संस्कृति ही नहीं झलकती अपितु भारतीय इतिहास का भी विशाल भंडार इस पुस्तक में विद्यमान है। महाभारत में अनेक ऐसे प्रसंग हैं जो आज के युग में भी उतने ही उपादेय हैं, जिसने कभी पहले थे। महाभारत के वनपर्व से ली गई यह कथा न केवल मनुष्यों के प्रति अपितु सभी जीव जन्तुओं के प्रति समदृष्टि पर बल देती है। समाज में असहाय, गरीब, दुर्बल लोगों अथवा जीवों के प्रति भी मां का स्नेह और उसकी ममता उतनी ही प्रगाढ़ होती है जितनी सबल लोगों के प्रति, यही इस पाठ का मुख्य संदेश है।

Leave a Comment

Your email address will not be published. Required fields are marked *